Blog by Omtva | Digital Diary

" To Present local Business identity in front of global market"

Meri Kalam Se
Digital Diary Submit Post Omtva

दक्षिणकालिका कवचम्

|| दक्षिणकालिका कवचम् || कैलास शिखरारूढं भैरवं चन्द्रशेखरम् । वक्षःस्थले समासीना भैरवी परिपृच्छति ॥ भैरव्युवाच देवेश परमेशान लोकानुग्रहकारकः । कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥ यदि मे महती प्रीतिस्तवास्ति कुल भैरव । कवचं कालिका देव्याः कथयस्वानुकम्पया ॥ भैरवोवाच अप्रकाश्य मिदं देवि नर लोके विशेषतः । लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥ भैरव्युवाच सेवका वहवो नाथ कुलधर्म परायणाः ।... Read More
|| दक्षिणकालिका कवचम् || कैलास शिखरारूढं भैरवं चन्द्रशेखरम् । वक्षःस्थले समासीना भैरवी परिपृच्छति ॥ भैरव्युवाच देवेश परमेशान लोकानुग्रहकारकः । कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥ यदि मे महती प्रीतिस्तवास्ति कुल भैरव । कवचं कालिका देव्याः कथयस्वानुकम्पया ॥ भैरवोवाच अप्रकाश्य मिदं देवि नर लोके विशेषतः । लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥ भैरव्युवाच सेवका वहवो नाथ कुलधर्म परायणाः । यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥ तेषां प्रयोग सिद्धयर्थ स्वरक्षार्थ विशेषतः । पृच्छामि बहुशो देव कथयस्व दयानिधे ॥ भैरवोवाच कथयामि श्रृणु प्राज्ञे कालिका कवचं परम् । गोपनीयं पशोरग्रे स्वयोनिम परे यथा ॥     विनियोग अस्य श्री दक्षिणकालिका कवचस्य भैरव ऋषिः, उष्णिक् छन्द:, अद्वैतरूपिणी श्री दक्षिणकालिका देवता, ह्नीं बीजं, हूं शाक्तिः. क्रीं कीलकं सर्वार्थ साधन पुरःसर मंत्र सिद्धौ विनियोगः । अथ कवचम् सहस्त्रारे महापद्मे कर्पूरधवलो गुरुः । वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥ परमेश: पुरः पातु परापर गुरुस्तथा । परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥ महादेवी सदा पातु महादेव: सदावतु । त्रिपुरो भैरवः दिव्यरूपधरः सदा ॥ ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु । चलश्चित्तः सदा पातु पातु चेलाञ्चलश्च पातु माम् ॥ कुमारः क्रोधनश्चैव वरदः स्मरदीपन: । मायामायावती चैव सिद्धौघा: पातु सर्वदा ॥ विमलो कुशलश्चैव भीजदेवः सुधारकः । मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥ मूलदेवो रतिदेवो विघ्नेश्वर हुताशान: । सन्तोषः समयानन्दः पातु माम मनवा सदा ॥ सर्वेऽप्यानन्दनाथान्तः अम्बान्तां मातरः क्रमात् । गणनाथः सदा पातु भैरवः पातु मां सदा ॥ बटुको नः सदा पातु दुर्गा मां परिरक्षतु । शिरसः पाद पर्यन्तं पातु मां घोरदक्षिणा ॥ तथा शिरसि माम काली ह्यदि मूले च रक्षतु । सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥ क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदावतु । ह्नीं ह्नीं पातु सदाधोर दक्षिणेकालिके हृदि ॥ क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदावतु । ह्नीं ह्नीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥ पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु । षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥ मंत्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः । चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥ उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके । नीला घना वलाका च तथा परत्रिकोणके ॥ मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥ बहिः षट्‌कोणके पान्तु विप्रचित्ता तथा प्रिये । सर्वाः श्यामाः खड्‌गधरा वामहस्तेन तर्जनीः ॥ ब्राह्मी पूर्वदले पातु नारायणि तथाग्निके । माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥ कौमारी पश्चिचे पातु वायव्ये चापराजिता । वाराही चोत्तरे पातु नारासिंही शिवेऽवतु ॥ ऐं ह्नीं असिताङ्ग पूर्व भैरवः परिरक्षतु । ऐं ह्णीं रुरुश्चाजिनकोणे ऐं ह्नीं चण्डस्तु दक्षिणे ॥ ऐं ह्नीं क्रोधो नैऋतेऽव्यात् ऐं ह्नीं उन्मत्तकस्तथा । पश्चिमे पातु ऐं ह्नीं मां कपाली वायु कोणके ॥ ऐं ह्नीं भीषणाख्यश्च उत्तरे ऽवतु भैरवः । ऐं ह्नीं संहार ऐशान्यां मातृणामङ्कया शिवः ॥ ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् । ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदावतु ॥ ऐं वह्नि वेतालो वटुको दक्षिणे मामा सदाऽवतु । ऐं अग्निजिह्व वटुको ऽव्यात् नैऋत्यां पश्चिमे तथा ॥ ऐं कालवटुक: पातु ऐं करालवटुकस्तथा । वायव्यां ऐं एकः पातु उत्तरे वटुको ऽवतु ॥ ऐं भीम वटुकः पातु ऐशान्यां दिशि माम सदा । ऐं ह्णीं ह्नीं हूं फट् स्वाहान्ताश्चतुः षष्टि च मातरः ॥ ऊर्ध्वाधो दक्षवामागें पृष्ठदेशे तु पातु माम् । ऐं हूं सिंह व्याघ्रमुखी पूर्वे मां परिरक्षतु ॥ ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु । ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥ ऐं चौं चौं गजराजमुखी नैऋत्यां मां सदाऽवतु । ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥ ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु । ऐं हां हां ह्नस्वदीर्घमुखी लम्बोदर महोदरी ॥ पातुमामुत्तरे कोणे ऐं ह्नीं ह्नीं शिवकोणके । ह्नस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥ एताः श्मशानवासिन्यो भीषणा विकृताननाः । पांतु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥ इन्द्रो मां पूर्वतो रक्षेदाग्नेय्या मग्निदेवता । दक्षे यमः सदा पातु नैऋत्यां नैऋतिश्च माम् ॥ वरुणोऽवतु मां पश्चात वायुर्मां वायवेऽवतु । कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥ ऊर्ध्व ब्रह्मा सदा पातु अधश्चानन्तदेवता । पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्चमाम् ॥ कालिका पातु शिरसि ह्र्दये कालिकाऽवतु । आधारे कालिका पातु पादयोः कालिकाऽवतु ॥ दिक्षु मा कालिका पातु विदिक्षु कालिकाऽवतु । ऊर्ध्व मे कालिका पातु अधश्च कालिकाऽवतु ॥ चर्मासूङ मांस मेदा‍ऽस्थि मज्जा शुक्राणि मेऽवतु । इन्द्रयाणि मनश्चैव देहं सिद्धिं च मेऽवतु ॥ आकेशात् पादपर्यन्तं कालिका मे सदाऽवतु । वियति कालिका पातु पथि नाकालिकाऽवतु ॥ शयने कालिका पातु सर्वकार्येषु कालिका । पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥ यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया । इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥ तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् । तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥ सर्व पापः क्षयं यान्ति वाञ्छा सर्वत्र सिद्धयति । नाम्नाः शतगुणं स्तोत्रं ध्यानं तस्मात् शताधिकम् ॥ तस्मात् शताधिको मंत्रः कवचं तच्छताधिकम् । शुचिः समाहितों भूत्वा भक्तिं श्रद्धा समन्वितः ॥ संस्थाप्य वामभागेतु शक्तितं स्वामि परायणाम् । रक्तवस्त्र परिघानां शिवमंत्रधरां शुभाम् ॥ या शक्तिः सा महादेवी हररूपश्च साधकः । अन्योऽन्य चिन्तयेद्देवि देवत्वमुपुजायते ॥ शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा । भोगैश्च मधुपर्काद्यै स्ताम्बूलैश्च सुवासितैः ॥ ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये । तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥ इदं रहस्यं परमं परं स्वस्त्ययनं महत् । या सकृत्तुपठद्देवि कवचं देवदुर्लभम् ॥ सर्वयज्ञ फलं तस्य भवेदेव न संशयः । संग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥ नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च । तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥ गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् । दीर्घायुः कामभोगीशो गुरुभक्ताः सदा भवेत् ॥ अहो कवच माहात्म्यं पठमानस्य नित्यशः । विनापि नयोगेन योगीश समतां व्रजेत् ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । न शक्नोमि प्रभावं तु कवचस्यास्य वर्णिताम् ॥
Read Full Blog
sanreaders@gmail.com 30 Nov 2023 1007 Views

बगला प्रत्यङ्गिरा कवच

|| बगला प्रत्यङ्गिरा कवच || भगवती बगलामुखी की उपासना कलियुग में सभी कष्टों एवं दुखों से मुक्ति प्रदान करने वाली है। संसार में कोई कष्ट अथवा दुख ऐसा नही है जो भगवती पीताम्बरा की सेवा एवं उपासना से दूर ना हो सकता हो, बस साधकों को चाहिए कि धैर्य पूर्वक प्रतिक्षण भगवती की सेवा करते रहें। विनियोग: ॐ अस्य श्री बगला प्रत्यंगिरा कवच मंत्रस्य नारद ऋषिः स्त्रिष्टुपछन्दः प्रत्यंगिरा देवता ह्लीं बीजं हूँ शक्त... Read More
|| बगला प्रत्यङ्गिरा कवच || भगवती बगलामुखी की उपासना कलियुग में सभी कष्टों एवं दुखों से मुक्ति प्रदान करने वाली है। संसार में कोई कष्ट अथवा दुख ऐसा नही है जो भगवती पीताम्बरा की सेवा एवं उपासना से दूर ना हो सकता हो, बस साधकों को चाहिए कि धैर्य पूर्वक प्रतिक्षण भगवती की सेवा करते रहें। विनियोग: ॐ अस्य श्री बगला प्रत्यंगिरा कवच मंत्रस्य नारद ऋषिः स्त्रिष्टुपछन्दः प्रत्यंगिरा देवता ह्लीं बीजं हूँ शक्तिः ह्रीं कीलकं ह्लीं ह्लीं ह्लीं ह्लीं प्रत्यंगिरा मम शत्रु विनाशे विनियोगः | ॐ प्रत्यंगिरायै नमः प्रत्यंगिरे सकल कामान साधय मम रक्षां कुरु कुरु सर्वान शत्रुन खादय खादय,मारय मारय,घातय घातय, ॐ ह्रीं फट स्वाहा | ॐ भ्रामरी स्तम्भिनी देवी क्षोभिणी मोहिनी तथा | संहारिणी द्राविणी च जृम्भणी रौद्ररूपिणी || इत्यष्टौ शक्तयो देवि शत्रु पक्षे नियोजताः | धारयेत कण्ठदेशे च सर्व शत्रु विनाशिनी || ॐ ह्रीं भ्रामरी सर्व शत्रून भ्रामय भ्रामय ॐ ह्रीं स्वाहा | ॐ ह्रीं स्तम्भिनी मम शत्रून स्तम्भय स्तम्भय ॐ ह्रीं स्वाहा | ॐ ह्रीं क्षोभिणी मम शत्रून क्षोभय क्षोभय ॐ ह्रीं स्वाहा | ॐ ह्रीं मोहिनी मम शत्रून मोहय मोहय ॐ ह्रीं स्वाहा | ॐ ह्रीं सँहारिणी मम शत्रून संहारय संहारय ॐ ह्रीं स्वाहा | ॐ ह्रीं द्राविणी मम शत्रून द्रावय द्रावय ॐ ह्रीं स्वाहा | ॐ ह्रीं जृम्भिणी मम शत्रून जृम्भय जृम्भय ह्रीं ॐ स्वाहा | ॐ ह्रीं रौद्रि मम शत्रून संतापय संतापय ॐ ह्रीं स्वाहा | || इति बगला प्रत्यंगिरा कवच ||
Read Full Blog
sanreaders@gmail.com 30 Nov 2023 783 Views

बुध ग्रह कवच

|| बुध ग्रह कवच || II श्री गणेशाय नमः II  अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I अनुष्टुप् छंदःI बुधो देवता I बुधपीडाशमनार्थं जपे विनियोगः II बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I पितांबरधरः पातु पितमाल्यानुलेपनः II १ II कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II २ II घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I कंठं पातु विधोः पुत्रो भुजा प... Read More
|| बुध ग्रह कवच || II श्री गणेशाय नमः II  अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I अनुष्टुप् छंदःI बुधो देवता I बुधपीडाशमनार्थं जपे विनियोगः II बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I पितांबरधरः पातु पितमाल्यानुलेपनः II १ II कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II २ II घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः II ३ II वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः II ४ II जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः I पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु II ५ II एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I सर्व रोगप्रशमनं सर्व दुःखनिवारणम् II ६ II आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् II ७ II    II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं II
Read Full Blog
sanreaders@gmail.com 30 Nov 2023 863 Views

बृहस्पति कवच

|| बृहस्पति कवच || अथ बृहस्पतिकवचम् अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः । अनुष्टुप् छंदः । गुरुर्देवता । गं बीजं श्रीशक्तिः ।क्लीं कीलकम् । गुरुपीडोपशमनार्थं जपे विनियोगः ॥ अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् ।अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥ १ ॥ बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः ॥ २ ॥ जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।मु... Read More
|| बृहस्पति कवच || अथ बृहस्पतिकवचम् अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः । अनुष्टुप् छंदः । गुरुर्देवता । गं बीजं श्रीशक्तिः ।क्लीं कीलकम् । गुरुपीडोपशमनार्थं जपे विनियोगः ॥ अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् ।अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥ १ ॥ बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः ॥ २ ॥ जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः ॥ ३ ॥ भुजावांगिरसः पातु करौ पातु शुभप्रदः ।स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ४ ॥ नाभिं केवगुरुः पातु मध्यं पातु सुखप्रदः ।कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः ॥ ५ ॥ जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा ।अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ॥ ६ ॥ इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः ।सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ७ ॥ ॥ इति श्रीब्र्ह्मयामलोक्तं बृहस्पतिकवचं संपूर्णम् ॥
Read Full Blog
sanreaders@gmail.com 30 Nov 2023 829 Views

ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्

|| ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम् || श्रीगणेशाय नमः । नारद उवाच । भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद । ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥ नारायण उवाच । शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् । श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥ २॥ ब्रह्मणा कथितं पूर्वं धर्माय जान्हवीतटे । धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥ ३॥ त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा । ममोच ब्रह्मा यद्धृत्व... Read More
|| ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम् || श्रीगणेशाय नमः । नारद उवाच । भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद । ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥ नारायण उवाच । शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् । श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥ २॥ ब्रह्मणा कथितं पूर्वं धर्माय जान्हवीतटे । धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥ ३॥ त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा । ममोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात् ॥ ४॥ सञ्जहार रक्तबीजं यद्धृत्वा भद्रकालिका । यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम् ॥ ५॥ यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः । यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः ॥ ६॥ ॐ दुर्गेति चतुर्थ्यंतः स्वाहान्तो मे शिरोऽवतु । मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥ ७॥ विचारो नास्ति वेदे च ग्रहणेऽस्य मनोर्मुने । मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥ ८॥ मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽन्तकः । ॐ दुर्गे इति कण्ठं तु मन्त्रः पातु सदा मम ॥ ९॥ ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् । ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥ १०॥ ह्रीं मे वक्षस्थले पातु हं सं श्रीमिति सन्ततम् । ऐं श्रीं ह्रीं पातु सर्वाङ्गं स्वप्ने जागरणे सदा ॥ ११॥ प्राच्यां मां पातु प्रकृतिः पातु वह्नौ च चण्डिका । दक्षिणे भद्रकाली च नैऋत्यां च महेश्वरी ॥ १२॥ वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला । उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥ १३॥ जले स्थले चान्तरिक्षे पातु मां जगदम्बिका । इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥ १४॥ यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥ १५॥ कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः । स्नाने च सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे ॥ १६॥ यत्फलं लभते लोकस्तदेतद्धारणे मुने । पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम् ॥ १७॥ लोके च सिद्धकवचो नावसीदति सङ्कटे । न तस्य मृत्युर्भवति जले वह्नौ विषे ज्वरे ॥ १८॥ जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धीश्वरीश्वरि । यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् ॥ १९॥ ॥ इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डान्तर्गतदुर्गाकवचम् सम्पूर्णम् ॥
Read Full Blog
sanreaders@gmail.com 30 Nov 2023 766 Views

मंगल ग्रह कवच

|| मंगल ग्रह कवच || अथ मंगल कवचम्   अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः । अनुष्टुप् छन्दः । अङ्गारको देवता । भौम पीडापरिहारार्थं जपे विनियोगः। रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः ॥ १ ॥ अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः । श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥ २ ॥ नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । भुजौ मे रक्तमा... Read More
|| मंगल ग्रह कवच || अथ मंगल कवचम्   अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः । अनुष्टुप् छन्दः । अङ्गारको देवता । भौम पीडापरिहारार्थं जपे विनियोगः। रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः ॥ १ ॥ अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः । श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥ २ ॥ नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ ३ ॥ वक्षः पातु वरांगश्च हृदयं पातु लोहितः। कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ ४ ॥ जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा । सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ॥ ५ ॥ या इदं कवचं दिव्यं सर्वशत्रु निवारणम् । भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् ॥ ६ ॥ सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् । भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ॥ रोगबंधविमोक्षं च सत्यमेतन्न संशयः ॥ ७ ॥ ॥ इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं ॥
Read Full Blog
sanreaders@gmail.com 30 Nov 2023 579 Views

महाकाली कवच

|| महाकाली कवच || || भैरव्युवाच ||   काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो । इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥ त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् । सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥ सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् । अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥ || भैरवोवाच ||   रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे । श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥ पाठय... Read More
|| महाकाली कवच || || भैरव्युवाच ||   काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो । इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥ त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् । सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥ सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् । अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥ || भैरवोवाच ||   रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे । श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥ पाठयित्वा धारयित्वा त्रौलोक्यं मोहयेत्क्षणात् । नारायणोऽपि यद्धत्वा नारी भूत्वा महेश्वरम् ॥ योगिनं क्षोभमनयत् यद्धृत्वा च रघूद्वहः । वरदीप्तां जघानैव रावणादि निशाचरान् ॥ यस्य प्रसादादीशोऽपि त्रैलोक्य विजयी प्रभुः । धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः । एवं च सकला देवाः सर्वसिद्धिश्वराः प्रिये ॥ || विनियोग || ॐ श्री जगन्मङ्गलस्याय कवचस्य ऋषिः शिवः । छ्न्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥ जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु । यो विदाकर्षणे चैव विनियोगः प्रकीर्तितः ॥ || अथ कवचम् || शिरो मे कालिकां पातु क्रींकारैकाक्षरीपर । क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्‌गधारिणी ॥ हूं हूं पातु नेत्रयुग्मं ह्नीं ह्नीं पातु श्रुति द्वयम् । दक्षिणे कालिके पातु घ्राणयुग्मं महेश्वरि ॥ क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम् । वदनं सकलं पातु ह्णीं ह्नीं स्वाहा स्वरूपिणी ॥ द्वाविंशत्यक्षरी स्कन्धौ महाविद्यासुखप्रदा । खड्‌गमुण्डधरा काली सर्वाङ्गभितोऽवतु ॥ क्रीं हूं ह्नीं त्र्यक्षरी पातु चामुण्डा ह्रदयं मम । ऐं हूं ऊं ऐं स्तन द्वन्द्वं ह्नीं फट् स्वाहा ककुत्स्थलम् ॥ अष्टाक्षरी महाविद्या भुजौ पातु सकर्तुका । क्रीं क्रीं हूं हूं ह्नीं ह्नीं पातु करौ षडक्षरी मम ॥ क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकेऽवतु । क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी ॥ क्रीं मे गुह्नं सदा पातु कालिकायै नमस्ततः । सप्ताक्षरी महाविद्या सर्वतंत्रेषु गोपिता ॥ ह्नीं ह्नीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम् । काली दशाक्षरी विद्या स्वाहान्ता चोरुयुग्मकम् ॥ ॐ ह्नीं क्रींमे स्वाहा पातु जानुनी कालिका सदा । काली ह्रन्नामविधेयं चतुवर्ग फलप्रदा ॥ क्रीं ह्नीं ह्नीं पातु सा गुल्फं दक्षिणे कालिकेऽवतु । क्रीं हूं ह्नीं स्वाहा पदं पातु चतुर्दशाक्षरी मम ॥ खड्‌गमुण्डधरा काली वरदाभयधारिणी । विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ॥ काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी । विपचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः ॥ नीला घना वलाका च मात्रा मुद्रा मिता च माम् । एताः सर्वाः खड्‌गधरा मुण्डमाला विभूषणाः ॥ रक्षन्तु मां दिग्निदिक्षु ब्राह्मी नारायणी तथा । माहेश्वरी च चामुण्डा कौमारी चापराजिता ॥ वाराही नारसिंही च सर्वाश्रयऽति भूषणाः । रक्षन्तु स्वायुधेर्दिक्षुः दशकं मां यथा तथा ॥ || प्रतिफलम् || इति ते कथित दिव्य कवचं परमाद्भुतम् । श्री जगन्मङ्गलं नाम महामंत्रौघ विग्रहम् ॥ त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् । गुरु पूजां विधायाथ विधिवत्प्रपठेत्ततः ॥ कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः । एतच्छतार्धमावृत्य त्रैलोक्य विजयी भवेत् ॥ त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः । महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत् ॥ पुष्पाञ्जलीन् कालिका यै मुलेनैव पठेत्सकृत् । शतवर्ष सहस्त्राणाम पूजायाः फलमाप्नुयात् ॥ भूर्जे विलिखितं चैतत् स्वर्णस्थं धारयेद्यदि । शिखायां दक्षिणे बाहौ कण्ठे वा धारणाद् बुधः ॥ त्रैलोक्यं मोहयेत्क्रोधात् त्रैलोक्यं चूर्णयेत्क्षणात् । पुत्रवान् धनवान् श्रीमान् नानाविद्या निधिर्भवेत् ॥ ब्रह्मास्त्रादीनि शस्त्राणि तद् गात्र स्पर्शवात्ततः । नाशमायान्ति सर्वत्र कवचस्यास्य कीर्तनात् ॥ मृतवत्सा च या नारी वन्ध्या वा मृतपुत्रिणी । कण्ठे वा वामबाहौ वा कवचस्यास्य धारणात् ॥ वह्वपत्या जीववत्सा भवत्येव न संशयः । न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥ शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् । स्पर्शामुद्‌धूय कमला वाग्देवी मन्दिरे मुखे । पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥ इदं कवचं न ज्ञात्वा यो जपेद्दक्षकालिकाम् । शतलक्षं प्रजप्त्वापि तस्य विद्या न सिद्धयति । शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥
Read Full Blog
sanreaders@gmail.com 30 Nov 2023 1016 Views

माँ काली कवच

|| माँ काली कवच || कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम्। नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम्॥ नारायण उवाच श्रृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम्। गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम्॥ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम्। दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि॥ दशलक्षजपेनैव मन्त्रसिद्धि: कृता पुरा। पञ्चलक्षजपेनैव पठन् कवचमुत्तमम्॥ बभूव सिद्धकवचोऽप्ययोध्याम... Read More
|| माँ काली कवच || कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम्। नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम्॥ नारायण उवाच श्रृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम्। गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम्॥ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम्। दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि॥ दशलक्षजपेनैव मन्त्रसिद्धि: कृता पुरा। पञ्चलक्षजपेनैव पठन् कवचमुत्तमम्॥ बभूव सिद्धकवचोऽप्ययोध्यामाजगाम स:। कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रसादत:॥ नारद उवाच श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा। अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो॥ अथ कवचं श्रृणु वक्ष्यामि विपे्रन्द्र कवचं परमाद्भुतम्। नारायणेन यद् दत्तं कृपया शूलिने पुरा॥ त्रिपुरस्य वधे घोरे शिवस्य विजयाय च। तदेव शूलिना दत्तं पुरा दुर्वाससे मुने॥ दुर्वाससा च यद् दत्तं सुचन्द्राय महात्मने। अतिगुह्यतरं तत्त्‍‌वं सर्वमन्त्रौघविग्रहम्॥ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम्। क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने॥ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु। क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु॥ ह्रीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम्। ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु॥ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु। क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम॥ क्रीं भद्रकाल्यै स्वाहा मम वक्ष: सदावतु। क्रीं कालिकायै स्वाहा मम नाभिं सदावतु॥ ह्रीं कालिकायै स्वाहा मम पष्ठं सदावतु। रक्त बीजविनाशिन्यै स्वाहा हस्तौ सदावतु॥ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु। ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु॥ प्राच्यां पातु महाकाली आगन्ेय्यां रक्त दन्तिका। दक्षिणे पातु चामुण्डा नैर्ऋत्यां पातु कालिका॥ श्यामा च वारुणे पातु वायव्यां पातु चण्डिका। उत्तरे विकटास्या च ऐशान्यां साट्टहासिनी॥ ऊध्र्व पातु लोलजिह्वा मायाद्या पात्वध: सदा। जले स्थले चान्तरिक्षे पातु विश्वप्रसू: सदा॥ इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्। सर्वेषां कवचानां च सारभूतं परात्परम्॥ सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रसादत:। कवचस्य प्रसादेन मान्धाता पृथिवीपति:॥ प्रचेता लोमशश्चैव यत: सिद्धो बभूव ह। यतो हि योगिनां श्रेष्ठ: सौभरि: पिप्पलायन:॥ यदि स्यात् सिद्धकवच: सर्वसिद्धीश्वरो भवेत्। महादानानि सर्वाणि तपांसि च व्रतानि च॥ निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम्॥ इदं कवचमज्ञात्वा भजेत् कलीं जगत्प्रसूम्। शतलक्षप्रप्तोऽपिन मन्त्र: सिद्धिदायक:॥
Read Full Blog
sanreaders@gmail.com 29 Nov 2023 746 Views

माँ छिन्नमस्ता कवच

|| माँ छिन्नमस्ता कवच || हुं बीजात्मिका देवी मुण्डकर्त्रिधरा परा । ह्रदयं  पातु सा देवी वर्णिनी डाकिनी युता ।। श्रीं ह्रीं हुं ऐं चैव देवी पूर्वस्यां पातु सर्वदा । सर्वांग मे सदा पातु छिन्नमस्ता महाबला । वज्रवैरोचनीये हुं फट् बीजसमन्विता । उत्तरस्यां तथाग्नां च वारुणे नैऋतेऽवतु ।। इन्द्राक्षी भैरवी चैव सितांगी च सहारिणी । सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ।। Read More
|| माँ छिन्नमस्ता कवच || हुं बीजात्मिका देवी मुण्डकर्त्रिधरा परा । ह्रदयं  पातु सा देवी वर्णिनी डाकिनी युता ।। श्रीं ह्रीं हुं ऐं चैव देवी पूर्वस्यां पातु सर्वदा । सर्वांग मे सदा पातु छिन्नमस्ता महाबला । वज्रवैरोचनीये हुं फट् बीजसमन्विता । उत्तरस्यां तथाग्नां च वारुणे नैऋतेऽवतु ।। इन्द्राक्षी भैरवी चैव सितांगी च सहारिणी । सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ।।
Read Full Blog
sanreaders@gmail.com 29 Nov 2023 716 Views

माँ तारा प्रत्यंगिरा कवच

|| माँ तारा प्रत्यंगिरा कवच || || ईश्वर उवाच || ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा । हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १ ॥ शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः । धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २ ॥ || कवचमारम्भम् ||   ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३ ॥ ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४ ॥ ॐ मोहिनी स्त्रें स्त्रें मम... Read More
|| माँ तारा प्रत्यंगिरा कवच || || ईश्वर उवाच || ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा । हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १ ॥ शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः । धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २ ॥ || कवचमारम्भम् ||   ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३ ॥ ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४ ॥ ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ॥ ५ ॥ ॐ जृम्भिनी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ॥ ६ ॥ ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ॥ ७ ॥ ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ॥ ८॥ ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ॥ ९ ॥ ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र रक्ष रक्ष मां स्वाहा ॥ १० ॥ || फलश्रुति || य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् । स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन् न संशयः ॥ ११ ॥ रणे राजकुले दुर्गे महाभये विपत्तिषु । विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरं ॥ १२ ॥ अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी । मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीं । अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३ ॥ इमं स्तवं धीयानो नित्यं धारयेन्नरः । सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४ ॥ नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५ ॥ ॥ इति रुद्रयामले श्रीमदुग्रताराय प्रत्यङ्गिरा कवचं समाप्तम् ॥
Read Full Blog
sanreaders@gmail.com 29 Nov 2023 843 Views

Wefru Services

I want to Hire a Professional..